मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १७

संहिता

यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ ।
स हि क्षपा॑वा॒न्त्स भग॒ः स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

यत् । अ॒न्यासु॑ । वृ॒ष॒भः । रोर॑वीति । सः । अ॒न्यस्मि॑न् । यू॒थे । नि । द॒धा॒ति॒ । रेतः॑ ।
सः । हि । क्षपा॑ऽवान् । सः । भगः॑ । सः । राजा॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

वृष्गभोऽपां वर्षको यद्यः पर्जन्यात्मेन्द्रोऽन्यासु दिक्षु रोरवीति मेघद्वारा भृशं शब्दं करोति स पर्जन्य इन्द्रोऽन्यस्मिन्यूथे दिशां वृन्दे रेत उदकं नि दधाति । तत्र वर्षति । लोके हि वृषभः कासुचिद्गोषु रेतः सेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति । तद्वत् । स इन्द्रः क्षपावान् । क्शिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः । तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता यारात्रिः सोच्यते । तद्वान् । स भगः । सर्वैर्भजनीयः । स राजा हि । तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु । रोरवीति । रु शब्द इत्यस्य यङ् लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्यामिति प्रथमस्य न निघातः । यूथे । यु मिश्रणे । तिथपृष्ठगूथयूथ प्रोथा इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । रीङ् रक्शन इत्यस्मात् स्रुरीभ्यां तुट् चेत्यसुन्प्रत्ययस्तुडागमश्च । नित्वादाद्युदात्तः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१