मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १९

संहिता

दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान ।
इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः । पु॒पोष॑ । प्र॒ऽजाः । पु॒रु॒धा । ज॒जा॒न॒ ।
इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒स्य॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

त्वाष्ट्रे पशौ हविषोऽनुवाक्या देवस्त्वष्टेत्येषा । सूत्रितं च । देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वनानट् । आ. ३-८ । इति ।

सवतान्तर्यामितया सर्वस्य प्रेरको विश्वरूपो नानाविधरूपस्त्वष्टात्वष्टृनामको देवः प्रजाः पुरुधा बहुधा जजान । जनयति । ताश्च पुपोष । पोषयति । इमेमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि चास्य त्वष्टुः सम्बन्धीनि । विश्वरूपः । बहुव्रीहौ विश्वं संज्ञायामिति पुर्वपदान्तोदात्तत्वं ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१