मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् २१

संहिता

इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ ।
पु॒र॒ःसदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ ।
पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

विश्वधाया विश्वस्य धाता सर्वन्नो वा नोऽस्माकं राजेन्द्र इमां पृथिवीमन्तरिक्षं चोप तयोः समीपे क्षेति । निवसति । तत्र दृष्टान्तः । हितमित्रो न । यथा कस्यचित् । हितोपदेष्टा सुहृत्समीपे निवसति तद्वत् । वीराः समर्था युद्धसहाया मरुतः पुरःसदो युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य शर्मसदः । न चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रादौ तत्र तत्र सन्निधिं कुर्वाणा इत्यर्थः ॥ क्षेति । क्षि निवासगत्योरित्यस्य लटि बहुलं छन्दसीति विकरनस्य लुक् । निघातः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१