मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् २२

संहिता

नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति ।
सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

निः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ ।
सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

हे पर्जनात्मकेन्द्र ओषधीरोषधयस्ते निश्षिध्वरीर्निश्षिध्वर्यो नितरां त्वत्कर्तृकसिद्धिमत्यः । उतापि च आपस्त्वत्तो निःसृताः । पृथिवी ते तव भोगयोग्यं रयिं धनं बिभर्ति । पुरू वसूनि पृथिवी बिभर्ति । ऋग्वे. ३-५१-५ । इति हि निगमः । ततस्ते तव सखायो हविष्प्रदा नोपकारकाः स्तोतारो वयं वामभाजः स्याम । सर्वे वननीयधनभागिनो भवेम । तदेतद्देवानां महदैश्वर्यम् । निष्षिध्वरीः । षिधु संराद्धौ । संपदादिलक्षणो भावे क्विप् । तदस्यास्तीत्यर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्च । निसा सह समासः । निसः सकारं छान्दसत्वादनादृत्योपसर्गात्सुनोतीत्यादिना षत्वम् । ङीपः पित्त्वादनुदात्तत्वे धातुस्वरः । बिभर्ति । डुभृञ् धारणपोषणयोरित्यस्य लटि भृञामिदित्यभ्यौसस्येत्वम् । निघातः । वामभाजः । भज सेवायाम् । भजो ण्विः । पा. ३-२-६२ ॥ इति ण्विः । कृदुत्तरपदस्वरः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१