मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् २

संहिता

षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगु॑ः ।
ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका॑ ॥

पदपाठः

षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ ।
ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥

सायणभाष्यम्

अचरन् स्थायी एकः संवत्सरः षट् षट् संख्याकान् भारान् । भ्रियते पुष्पविकासादि येष्विति भारा ऋतवः । तान्वसन्तादीन् बिभर्ति । अवयवत्वेन धारयति । तथा ऋतं सत्यभूतं वर्षिष्ठं वृद्धतरमादित्यात्मकं तमेव संवत्सरं गावो रश्मय उपागुः । प्राप्नुवन्ति । किञ्च तस्मिन्नेव संवत्सरेऽत्या अतनशीला आगमापायिधर्मोपेतास्तिस्रो महीस्त्रयो लोका उपरा उपर्युपरि वर्तमानास्तुस्थुः । तिष्ठन्ति । लोकत्रयमेव दर्शयति । गुहा गुहायां स्वात्मनि द्वे द्यौश्चान्तरिक्षं चेत्येते निहिते । न दृश्येते । एका भूमिर्दर्शि । सर्वभूताधारतया दृश्यते ॥ भारान् । डुभृञ् धारणपोषणयोरित्यसा दधिकरणे घञ् । कर्षात्वतो घञ् इत्यन्तोदात्तत्वम् । निहिते । दधातेः कर्मणि निष्ठा । गतिरनन्त इति गतेः प्रकृतिस्वरत्वम् । दर्शि । दृशिर् प्रेक्षणे । कर्मणि लुङि चिणि चिणो लुगिति प्रत्ययस्य लुक् । वाक्यभेदादनिघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः