मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५६, ऋक् ३

संहिता

त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू॑प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् ।
त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्त्स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ॥

पदपाठः

त्रि॒ऽपा॒ज॒स्यः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । उ॒त । त्रि॒ऽउ॒धा । पु॒रु॒ध । प्र॒जाऽवा॑न् ।
त्रि॒ऽअ॒नी॒कः । प॒त्य॒ते॒ । माहि॑नऽवान् । सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् ॥

सायणभाष्यम्

त्रिपाजस्यः ग्रीष्मवर्षाहेमन्ताख्यैस्त्रिभिरृतुभिः पाजस्यमुरो यस्य स त्रिपाजस्यः । त्र्युरस्क इत्यर्थः । उरोवचनश्च पाजस्यशब्दः । इन्द्रस्य क्रोडोऽदित्यैपाजस्यम् । वाज. २५-८ । इत्यश्वमेधमन्त्र उरपरतयाम्नानात् पाजसि बले साधुरिति व्युत्पत्तेश्च सर्वेषामङ्गानां मध्य उरसो बलवत्त्वात् । वृषभः स्वावयभूते वर्षर्तावपां वर्षको विश्वरूपस्तत्तदृत्वसाधारणकार्यैः पुष्पविकासादिभिर्लिङ्गैर्नानारूप उतापि च त्र्युधा । वसन्तशरद्धेमन्ताख्यैस्त्रिभिरृतुभिरूधो यस्य स त्र्युधा । प्रजावान् । प्रकर्षेण जायन्त इति व्रीह्यादयः प्रजाः । पुरुध नानाप्रकारेण विद्यमानव्रीहियवादिरूपप्रजावान् । किञ्च त्र्यनीकस्त्रिभिरुष्णवर्षशीताख्यैरनीकैर्गुणैरुपेतो माहिनावान्महत्त्ववान् संवत्सराभिमानी देवः पत्यते । आगच्छति । वृषभः सेचनसमर्थः स संवत्सरः शश्वतीनां बह्वीनामोषधीनां पुष्पफलादिसंपत्तये रेतोधा रेतस उदकस्य धर्ता भवति ॥ त्र्युधा । बहुव्रीहेरूधसोऽनङ्गित्यनङ् । सर्वविधीनां छन्दसि विकल्पितत्वात्पुंस्यपि भवति । ऊकारस्य ह्रस्वश्छान्दसः । उत्तरपदान्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानमित्युत्तरपदान्तोदात्तत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः