मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् ३

संहिता

या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती॑र्जानते॒ गर्भ॑मस्मिन् ।
अच्छा॑ पु॒त्रं धे॒नवो॑ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं॑षि ॥

पदपाठः

याः । जा॒मयः॑ । वृष्णे॑ । इ॒च्छन्ति॑ । श॒क्तिम् । न॒म॒स्यन्तीः॑ । जा॒न॒ते॒ । गर्भ॑म् । अ॒स्मि॒न् ।
अच्छ॑ । पु॒त्रम् । धे॒नवः॑ । वा॒व॒शा॒नाः । म॒हः । च॒र॒न्ति॒ । बिभ्र॑तम् । वपूं॑षि ॥

सायणभाष्यम्

याजामयः । जमन्ति वर्षाकाले प्रादुर्भव्वन्तीति जामय ऒषधयः । वृष्णेऽपां वर्षकायेन्द्राय शक्तिं सेचनसामर्थ्यमिच्छन्ति । नमस्यन्तीः प्रह्वीभूतास्ता ओषधयोऽस्मिन्निन्द्रे गर्भं वृष्टिद्वारा पुश्पफलादिलक्षणगर्भादानादिसामर्थ्यं जानते । जानन्ति । वावशानाः फलं कामयमाना धेनवः सर्वस्य प्रीणयित्र्य ओषधयो महो वहान्ति नानाप्रकाराणि वपूंषि रूपाणि बिभ्रतं व्रीहियवनीवारादिफललक्षणं पुत्रं तनयमच्छाभिमुख्येन चरन्ति । प्रप्नुवन्ति । लोके हि हंभारवं कुर्वाणा धेनवो वत्समभिलक्ष्य गच्छन्ति । तद्वत् । यद्वा । जामयः । जमन्ति सर्वत्र प्रसरन्तीति जामयः सूर्यदीप्तयः । वृष्णेऽपां वर्षकाय । स्वरश्मिभिर्भ्ॐआन्रसानादाय पुनर्वर्षतीति वर्षकः सूर्यः । आदित्याज्जायते वृष्टिरिति स्मृतेश्च । तस्मै वर्षणशक्तिमिच्छन्ति । ता दीप्तयोऽस्मिन्नादित्ये गर्भमब्रूपगर्भाधानसामर्थ्यं जानन्ति ॥ जामयः । जमतेर्गतिकर्मणो जनिघसिभ्यामिण्णिति विधीयमानो बहुलवचनादस्मादपि भवति । नमस्यन्तीः । नमः शब्दान्नमोवरिवश्चित्रङः क्यजिति क्यच् । तदन्ताच्छतरि रूपम् । प्रत्ययस्वरः । जानते । ज्ञा अवबोधन इत्यस्य लटि रूपम् । अच्छ । निपातस्य चेति संहितायां दीर्घः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः