मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् ४

संहिता

अच्छा॑ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो॑ युजा॒नो अ॑ध्व॒रे म॑नी॒षा ।
इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ॥

पदपाठः

अच्छ॑ । वि॒व॒क्मि॒ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ग्राव्णः॑ । यु॒जा॒नः । अ॒ध्व॒रे । म॒नी॒षा ।
इ॒माः । ऊं॒ इति॑ । ते॒ । मन॑वे । भूरि॑ऽवाराः । ऊ॒र्ध्वाः । भ॒व॒न्ति॒ । द॒र्श॒ताः । यज॑त्राः ॥

सायणभाष्यम्

अध्वरे यज्ञे ग्राव्णः सोमाभिषवार्थमुपलान् युजानः प्रयुञ्जानोऽहं सुमेके सुरूपे रोदसी द्यावापृथिवौ मनीषा मनस ईषया स्तुतिलक्षणयावाचाच्छ विवक्मि । आभिमुख्येन स्त्ॐइ । हे अग्ने ते तव भूरिवारा यजमानैर्बहुवारं वरणीया दर्शताः कमनीयतया दरहनीया यजत्राः पूज्या इमा दीप्तयो मनवे मनुष्यव्यवहारार्थमूर्ध्वा ऊर्ध्वमुखा भवन्ति ॥ विवक्मि । वच परिभाशणे । लटि बहुलं छन्दसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छन्दसीत्यभ्यासस्येत्वम् । चकारस्य कुत्वं व्यत्ययेन । युजानः । युजिबुधिदृशः किच्चेत्यानच् । कित्त्वादगुणः । चित्त्वादन्तोदात्तः । मनीशा । सुपो डादेशः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः