मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् ५

संहिता

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची ।
तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि ॥

पदपाठः

या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची ।
तया॑ । इ॒ह । विश्वा॑न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यय॑ । च॒ । मधू॑नि ॥

सायणभाष्यम्

हे अग्ने ते तव मधुमत्युदकवती सुमेधाः । शोभना मेधा प्रज्ञा यस्याः सा । सर्वस्य ज्ञापयित्री या जिह्वा ज्वालारूची बहुव्याप्तिः सती देवेषु मध्य आह्वानार्थमुच्यते प्रेर्यते तया जिह्वया यजत्रान्यजनीयान्विश्वानेवानिहकर्मण्यस्माकमवसे रक्षणाया सादय । उपवेशय । किञ्च तान्विश्वान्देवान्मधूनिमदकरान् सोमान्पायय । सुमेधाः । नित्यमसिच् प्रजामेधयोरित्यसिच् । उच्यते । वच परिभाषणे । कर्मणि यकि रूपम् । यद्वृत्तयोगादनिघातः । उरूची अञ्चतेः क्विन् । अञ्चतेश्चोपसंख्यानमिति ङीप् । अनुदात्तस्य च यत्रोदात्तलोप इति ङीप उदात्तत्वम् । पायय । पा पान इत्यस्य णौ परतः शाच्छासाह्वावावेषां युगिति युक् । तिङ उत्तरत्वादनिघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः