मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५७, ऋक् ६

संहिता

या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा ।
ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम् ॥

पदपाठः

या । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा ।
ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥

सायणभाष्यम्

देव दीप्यमान हे अग्ने चित्रा नानारूपासश्चन्त्यस्मदन्यत्र सङ्गतिमकुर्वाणा या ते तव प्रमतिः प्रकृष्टा बुद्धिः पीपयत् अपेक्षितफलदानेनास्मान्वर्धयति । तत्र द्रुष्टान्तः । पर्वतस्येव धारा । यथा पर्वतस्य मेघस्योदकधारौषधिवनस्पत्यादिशु सङ्गतिं कुर्वाणा तान्वर्धयति तद्वत् । वसो सर्वस्य वासयितर्जातवेदो जातप्रज्ञ हे अग्ने तां प्रमतिं परहितकरणसमर्थां बुद्धिमस्मभ्यं रास्व । दत्स्व । तथा विश्वजन्यां सर्वजनहितां सुमतिं शोभनां बुद्धिं दत्स्व ॥ असश्चन्ति । सश्चतिर्गतिकर्मा । शतर्युगितश्चेति ङीप् । नञा समासे नञ्स्वरः । पीपयत् । पा पाने । ण्यन्तस्य लुङि चङे रूपम् । चङ्यन्यतरस्यामिति चङे परतः पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । प्रमतिम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । रास्व । रा दाने । व्यत्ययेनात्मनेपदम् । लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वान्निघाताभावः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः