मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् १

संहिता

धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः ।
आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षस॒ः स्तोमो॑ अ॒श्विना॑वजीगः ॥

पदपाठः

धे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः ।
आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥

सायणभाष्यम्

धेनुः प्रीणयित्र्युषाः प्रत्नस्य पुरातनस्याग्नेः काम्यं कमनीयं पयो दुहाना । दोग्ध्री भवति । दक्शिणाया उषसः पुत्रः सूर्यस्तस्या अन्तश्चरति । उषसोऽनन्तरं शुभ्रयामा । सूर्यकिरणसम्पर्काच्छुभ्रतया गमनं यस्यासौ शुभ्रयामा दिवसः । द्योतनिं सर्वस्य प्रकाशकं सूर्यमा वहति । बिभर्ति । आत उषसः पुराश्विनौ स्तोतुं स्तोमः स्तोत्रकारी होत्रादिरजीगः । जागर्ति । उत्तिष्थति । शुभ्रयामा । या प्रापणे । आतो मनिन् । बहुव्रीहौ पूर्वपदस्वरः । अजीग । जागृनिद्राक्षये । लङि तिप्यदादित्वाच्छपो लुक् । आकारस्येकारश्छान्दसः । गुणे कृते हल्ङ्यादिना तिपो लोपः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः