मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् ३

संहिता

सु॒युग्भि॒रश्वै॑ः सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑ः ।
किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥

पदपाठः

सु॒युक्ऽभिः॑ । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥

सायणभाष्यम्

हे अश्विनौ सुयुग्भिः सुष्ठु योजितैरश्वैः सुवृता । पुनः पुनरावर्तत इति वृच्चक्रम् । शोभनचक्रोपेतेन रथेनागत्य दस्रौ शत्रूणामुपक्षपयितारौ युवामद्रेः । आद्रियते सर्वैरित्यद्रिः स्तोता । तस्येमं श्लोकं स्तोत्रं शृणुतम् । अङ्ग हे अश्विनौ विप्रासो मेधाविनः पुराजाः पुरातना ऋषयो वां युवामवर्तिमस्माकं वृत्तिहानिं प्रति गमिष्ठा अतिशयेन गन्ताराविति किमाहुः किं कथयन्तीति । न कथयन्तीत्यर्थः । प्रथमाष्टकेऽष्टमेऽध्याये सुवृता रथेनेत्यादि गतम् । गमिष्ठा । गन्तृशब्धादिष्थनि रूपं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः