मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५८, ऋक् ४

संहिता

आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते ।
इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥

पदपाठः

आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ ।
इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥

सायणभाष्यम्

क्वचिदिति प्रश्ने । हे अश्विनौ आ मन्येथाम् । इमां मदीयां स्तुतिं जानीतम् । किञ्च एवैर्गमनसाधनैरश्वैरागतम् । यज्ञं प्रत्यागच्छतम् । विश्वे सर्वे जनासः स्तोतारोऽश्विनाश्विनौ वां युवां हवन्ते । स्तुतिलक्षणाभिर्वाग्भिराह्वयन्ति । किञ्च गोऋजीका गवां पयसा मिश्रणोपेतानि मधूनि मदकराणि सोमरसरूपाणीमेमानि हवींषि युवाभ्यां प्रददुः । अध्वर्व्यादयः प्रयच्छन्ति । तत्र दृष्टान्तः । मित्रासो न । यथा मित्राणि मित्रेभ्योऽपेक्शितं ददति तद्वत् । उस्रः । वसति नभसीत्युस्रः सूर्यः । अग्र उषसोऽग्र उदेति । तस्मादागच्छतमिति भावः । ददुः । दाण् दान इत्यस्य लिट्युसि रूपम् । हियोगादनिघातः । उस्रः । वस निवासे । स्फायितंचीत्यादिना रक् । कित्त्वात्संप्रसारणम् । शासिवसिघसीनां चेति षत्वाभावश्छान्दसः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः