मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् १

संहिता

मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् ।
मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ॥

पदपाठः

मि॒त्रः । जना॑न् । या॒त॒य॒ति॒ । ब्रु॒वा॒णः । मि॒त्रः । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
मि॒त्रः । कृ॒ष्टीः । अनि॑ऽमिषा । अ॒भि । च॒ष्टे॒ । मि॒त्राय॑ । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥

सायणभाष्यम्

ब्रुवाणः स्तूयमानः शब्दं कुर्वाणो वा मित्रः । प्रकर्षेण सर्वैर्मीयते ज्ञायते तथा सर्वान्वृष्टिप्रदानेन त्रायत इति वा मित्रः सूर्यः । जनान् कर्षकादिजनान्यातयति । कृष्यादिकर्मसु प्रयत्नं कारयति । तथा मित्र एव पृथिवीमुतापि च द्यामेतावुभौ लोकौ वृष्टिद्वारान्नं यागांश्च जनयन् दाधार । धारयति । तथा सति मित्रोऽनिमिषानिमेषाणानुग्रहदृष्ट्या कृष्टीः कर्मवतो मनुष्यानभि चष्टे । सर्वतः पश्यति । एतत्सर्वं ज्ञात्वा हे ऋत्विजो घृतवदुपस्तरणाभिघारनयुक्तं हव्यं हवनयोग्यं पुरोडाशादिकं तस्मै मित्राय देवाय जुहोत । जुहुत । प्रयच्छतेत्यर्थः । उक्तार्थं यास्को ब्रवीति । मित्रो जनान्यातयति ब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रः कृष्टीरनिमिषन्नभिपश्यतीति । कृष्तय इति मनुष्यनाम कर्मवन्तो भवन्ति विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा । नि. १०-२२ । इति यातयति । यती प्रयत्न इत्यस्य ण्यन्तस्य लटि रूपम् । दधार । तुजादीनामित्यभ्यासस्य दीर्घः । जुहोत । जुहोतेर्लोटि प्रत्ययस्य तबादेशः । गुणः । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः