मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ५

संहिता

म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ ।
तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥

पदपाठः

म॒हान् । आ॒दि॒त्यः । नम॑सा । उ॒प॒ऽसद्यः॑ । या॒त॒यत्ऽज॑नः । गृ॒ण॒ते । सु॒ऽशेवः॑ ।
तस्मै॑ । ए॒तत् । पन्य॑ऽतमाय । जुष्ट॑म् । अ॒ग्नौ । मि॒त्राय॑ । ह॒विः । आ । जु॒हो॒त॒ ॥

सायणभाष्यम्

योऽयमादित्यो महान् अत एव नमसा नमस्कारेणोपसद्यः सर्वैरुपसदनीयो यातयज्जनः । प्रातः प्रातः स्वस्वकर्मणि प्रवर्तनीया जना येनेति सतथोक्तः । गृणते स्तोत्रं कुर्वते जनाय सुशेवश्च भवति तस्मै पन्यतमाय स्तुत्यतमाय मित्रायादित्याय जुष्टं प्रीतिविषयमेतद्धविरग्नावा जुहोत । जुहुत । यातयज्जनः । यती प्रयत्न इत्यस्य ण्यन्तस्य शतरि रूपम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् । गृणते । गॄ शब्दे । शतुरनुम इति विभक्तेरुदात्तत्वम् । पन्यतमाय । पनतेरघ्न्यादित्वाद्यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जुष्टम् । नित्यं मन्त्र इत्याद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः