मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५९, ऋक् ८

संहिता

मि॒त्राय॒ पञ्च॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे ।
स दे॒वान्विश्वा॑न्बिभर्ति ॥

पदपाठः

मि॒त्राय॑ । पञ्च॑ । ये॒मि॒रे॒ । जनाः॑ । अ॒भिष्टि॑ऽशवसे ।
सः । दे॒वान् । विश्वा॑न् । बि॒भ॒र्ति॒ ॥

सायणभाष्यम्

पञ्च जना निषादपञ्चमाश्चत्वारो वर्णा अभिष्टिशवसे शत्रूणामभिगन्तृबलयुक्ताय मित्राय येमिरे । हवींष्युद्यच्छन्ति । स तादृशो मित्रो विश्वान् सर्वान्देवान्बिभर्ति । स्वस्वरूपतया धारयति । अभिष्टिशवसे । इषेर्मन्त्रे वृषेत्यादिना क्तिन् । तादौ च नितीत्यभेरन्तोदात्तत्वम् । शकन्ध्वादित्वात्पररूपत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः