मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् ५

संहिता

इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒ः समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः ।
धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑ः स॒ह म॑त्स्वा॒ नृभि॑ः ॥

पदपाठः

इन्द्र॑ । ऋ॒भुऽभिः॑ । वाज॑वत्ऽभिः । सम्ऽउ॑क्षितम् । सु॒तम् । सोम॑म् । आ । वृ॒ष॒स्व॒ । गभ॑स्त्योः ।
धि॒या । इ॒षि॒तः । म॒घ॒ऽव॒न् । दा॒शुषः॑ । गृ॒हे । सौ॒ध॒न्व॒नेभिः॑ । स॒ह । म॒त्स्व॒ । नृऽभिः॑ ॥

सायणभाष्यम्

आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्र इन्द्र ऋभुभिरित्यार्भवस्तृचः । सूत्रितं च । घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ । आ. ७-७ । इति । आद्यस्तृतीयसवने होतुः प्रस्थितयाज्या । सूत्रितं च । इन्द्र ऋभुभिर्वाजवद्भिः समुक्शितमिन्द्रावरुणा सुतपाविमं सुतम् । आ. ५-५ । इति ॥

हे इन्द्र वाजवद्भिः । वचो नाम ऋभूणां भ्राता । यद्वा । वाजोऽन्नं तत्सहितैरृभुभिः सहितस्त्वं समुक्शितं सम्यगद्भिः सिक्तं ग्रावभिः सुतं सोमं गभस्त्योः । बप्सत्यदन्त्याभ्यामन्नमिति गृह्णन्ति पदार्थानाभ्यामिति वा गभस्ती बाहू । तयोर्बाह्वोरा वृषस्व । आक्षारय । ग्रहमुभाभ्यां बाहुभ्यां गृहीत्वा सोमं पिबेत्यर्थः । हे मघवन् हे इन्द्र धिया स्तोत्ररूपेण कर्मणेषितः प्रेरितस्त्वं दाश्षो हविर्दत्तवतो यजमानस्य गृहे सौधन्वनेभिः सुधन्वनः पुत्रैर्नृभिर्मनुष्यैरृभुभिः सह साकं मत्स्व । सोमपानेन हृष्टो भव । समुक्शितम् । उक्श सेचने । कर्मणि क्तः । गतिरनन्तर इति गतेः स्वरः । नभस्तोः । भस भर्त्सनदीप्त्योरित्यस्माद्भसेर्गट्चेति सूत्रेण तिप्रत्ययो धातोर्गडामश्च । यद्वा । गृह्णातेः पृषोदरादित्वादेवं नेयम् । मत्स्व । मदि स्तुत्यादिषु । लोटि बहुलं छन्दसीति विकरणस्य लुक् । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः