मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् ६

संहिता

इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत ।
इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥

पदपाठः

इन्द्र॑ । ऋ॒भु॒ऽमान् । वाज॑ऽवान् । म॒त्स्व॒ । इ॒ह । नः॒ । अ॒स्मिन् । सव॑ने । शच्या॑ । पु॒रु॒ऽस्तु॒त॒ ।
इ॒मानि॑ । तुभ्य॑म् । स्वस॑राणि । ये॒मि॒रे॒ । व्र॒ता । दे॒वाना॑म् । मनु॑षः । च॒ । धर्म॑ऽभिः ॥

सायणभाष्यम्

पुरुष्टुत बहुभिः स्तुत हे इन्द्र ऋभुमान् ऋभुणा तद्वान् वाजवान् वाजेन ऋभोर्भ्रात्रा युक्रः शच्येन्द्राण्या कर्मणा वा सहितः सन् नोऽस्माकमिह कर्मण्यस्मिन् तृतीयसवने मत्स्व । हृष्टो भव । हे इन्द्र तुभ्यं त्वदर्थमिमानि स्वसराण्यहानि येमिरे । तव सोमपानार्थं त्रिषु सवनेशु नियतान्यासते । किञ्च देवानामग्न्यादीनां व्रता व्रतानि कर्माणि च मनुषो मनुष्यस्य धर्मभिः कर्मभिः साकं त्वदर्थं नियतान्यासते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः