मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६०, ऋक् ७

संहिता

इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् ।
श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥

पदपाठः

इन्द्र॑ । ऋ॒भुऽभिः॑ । वा॒जिऽभिः॑ । वा॒जय॑न् । इ॒ह । स्तोम॑म् । ज॒रि॒तुः । उप॑ । या॒हि॒ । य॒ज्ञिय॑म् ।
श॒तम् । केते॑भिः । इ॒षि॒रेभिः॑ । आ॒यवे॑ । स॒हस्र॑ऽनीथः । अ॒ध्व॒रस्य॑ । होम॑नि ॥

सायणभाष्यम्

हे इन्द्र वाजिभिर्वाजयुक्तैरृभुभिः सहितस्त्वं वाजयन् स्तोतुर्वाजमन्नं कुर्वाण इह यज्ञे यज्ञियं यज्ञार्हं जरितुः स्तोमं स्तोत्रमुपयाहि । आगच्छ । पुनः किंविशिष्टः । केतेभिः । केत्यते ज्ञायते सर्वमेभिरिति केशाः प्राज्ञामरुतः । तैः शतं शतसंख्याकैरिषिरेभिरिषिरैर्गमनकुशलैरश्वैः सहित आयवे मनुष्याय यजमानाय सहस्रनीथो बहुप्रकारनयनोपेतोऽध्वरस्य । न विद्यतेध्वरो हिंसा यस्य तादृशस्य सोमस्य होमनि होम आगच्छेति शेशः । वाजयन् । वाजं करोतीति णिच् । णाविष्थवदीतिष्ठवद्भावात्तुरिष्ठेमेयःस्विति टिलोपः । केतेभिः । कित ज्ञाने । घञ् । ञित्त्वादाद्युदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः