मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् १

संहिता

उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ता॒ः स्तोमं॑ जुषस्व गृण॒तो म॑घोनि ।
पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥

पदपाठः

उषः॑ । वाजे॑न । वा॒जि॒नि॒ । प्रऽचे॑ताः । स्तोम॑म् । जु॒ष॒स्व॒ । गृ॒ण॒तः । म॒घो॒नि॒ ।
पु॒रा॒णी । दे॒वि॒ । यु॒व॒तिः । पुर॑म्ऽधिः । अनु॑ । व्र॒तम् । च॒र॒सि॒ । वि॒श्व॒ऽवा॒रे॒ ॥

सायणभाष्यम्

वाजेन वाजिन्यन्नेनान्नवति । तथा च मन्त्रः । सं वाजैर्वाजिनीवति । ऋग्वे. १-४८-१६ । इति । मघोनि धनवति हे उषः प्रचेताः प्रकृष्टज्ञानवती सती गृणतः तव स्तोत्रं कुर्वतः स्तोतुः स्तोमं स्तोत्रं जुशस्व । सेवस्व । यद्वा । वाजेन हविर्लक्शणेनान्नेन सह स्तोमं जुषस्वेति सम्बन्धः । विश्ववारे विश्वैः सर्वैर्वरणीये हे उषो देवि पुराणी पुरतनी युवतिरित्युपमा तद्वच्छोभमाना । सुसङ्काशा मातृमृष्टेव योशा । ऋग्वे. १-१२३-११ । इतिवत् । पुरन्धिः । पुरु बहु धीः स्तोत्रलक्षणं कर्म यस्याः सा । बहुस्तोत्रवती । पुरन्धिर्बहुधीरिति यास्कः । पुरन्धिः शोभमाना वा । एवं विधगुणोपेता त्वमनु व्रतं यज्ञकर्माभिलक्ष्य चरसि । यष्टव्यतया वर्तसे ॥ मघोनि । मघशब्दान्मतुरर्थे छन्दसीवनिपाविति वनिप् । स्त्रियामृन्नेभ्यो ङीप् । श्वयुवमघोनामतद्धित इति सम्प्रसारणे कृते गुणः । सम्बुद्धावम्बार्थनद्योर्ह्रस्वः । निघातः । पुराणी । पुराण शब्दः पुराणप्रोक्तेष्वित्यन्तोदात्तत्वेन निपातितः । टिड्ढाणञिति ङीप् । अनुदात्तस्य च यत्रोदात्तलोप इत्यन्तोदात्तत्वम् । पुरन्धिः । पृषोदरादित्वादुकारस्यामादेश ईकारस्य ह्रस्वश्च । आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानमित्याद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः