मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् २

संहिता

उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती ।
आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥

पदपाठः

उषः॑ । दे॒वि॒ । अम॑र्त्या । वि । भा॒हि॒ । च॒न्द्रऽर॑था । सू॒नृताः॑ । ई॒रय॑न्ती ।
आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒ऽयमा॑सः । अश्वाः॑ । हिर॑ण्यऽवर्णाम् । पृ॒थु॒ऽपाज॑सः । ये ॥

सायणभाष्यम्

हे उषो देव्यमर्त्या मरणधर्मरहिता चन्द्ररथा सुवर्णमयरथोपेता सूनृताः प्रियसत्यरूपा वाच ईरयन्त्युच्चारयन्ती । तथा च मन्त्रवर्णः । सुम्नावरी सूनृता ईरयन्ती । ऋग्वे. १-११३-१२ । इति । तादृशी त्वं वि भाहि । सूर्यकिरणसम्बन्धाद्विशेषेण दीप्यस्व । पृथुपाजसः प्रभूतबलयुक्ता अरुणवर्णा येऽश्वा विद्यन्ते सुयमासः सुष्ठु नियन्तुं शक्या रथे योजितास्तेऽश्वा हिरण्यवर्णां त्वां त्वामावहन्तु । सुयमासः । यमेरकृच्छ्रार्थे खल् । लित्स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः