मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् ३

संहिता

उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः ।
स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥

पदपाठः

उषः॑ । प्र॒ती॒ची । भुव॑नानि । विश्वा॑ । ऊ॒र्ध्वा । ति॒ष्ठ॒सि॒ । अ॒मृत॑स्य । के॒तुः ।
स॒मा॒नम् । अर्थ॑म् । च॒र॒णी॒यमा॑ना । च॒क्रम्ऽइ॑व । न॒व्य॒सि॒ । आ । व॒वृ॒त्स्व॒ ॥

सायणभाष्यम्

हे उषो देवि विश्वा सर्वाणि भुवनानि प्रतीची । प्रत्याभिमुख्येनाञ्चति प्राप्नोतीति प्रतीची । अमृतस्य मरणधर्मरहितस्य सूर्यस्य केतुः प्रज्ञापयित्री त्वमूर्ध्वा नभस्युन्नता तिष्थसि । नव्यसि पुनः पुनर्जायमानतया नवतरे हे उषो देव्यर्थम् । आर्यते गम्यतेऽस्मिन्नित्यर्थो मार्गः । समानमेकं मार्गमुदयात्प्राचीनकाललक्षणं चरणीयमाना चरित्मिच्छन्ती त्वमा ववृत्स्व । पुनस्तस्मिन्मार्ग आवृत्ता भव । तत्र दृष्ठान्तः । चक्रमिव । यथा नभसि चरितुः सूर्यस्य रथाङ्गं पुनः पुनरावर्तते तद्वत् । प्रतीची । प्रतिपूर्वादञ्चतेः क्विन् । अञ्चतेश्चोपसङ्ख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । केतुः । चायृ पूजनिशामनयोरित्यस्माच्चायः की चेति तुः । की इत्यादेशः । आर्धधातुकलक्षणो गुणः । अर्थम् । अर्तेस्थन्प्रत्ययः । नव्यसि । नवशब्दादीयसुनि ङीपि रूपम् । ईकारलोपश्छान्दसः । ववृत्स्व । वृतु वर्तने । बहुलं छन्धसीति विकरनस्य श्लुः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः