मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् ६

संहिता

ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् ।
आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥

पदपाठः

ऋ॒तऽव॑री । दि॒वः । अ॒र्कैः । अ॒बो॒धि॒ । आ । रे॒वती॑ । रोद॑सी॒ इति॑ । चि॒त्रम् । अ॒स्था॒त् ।
आ॒ऽय॒तीम् । अ॒ग्ने॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् । वा॒मम् । ए॒षि॒ । द्रवि॑णम् । भिक्ष॑माणः ॥

सायणभाष्यम्

ऋतावरी सत्यवती ये यमुषा दिवो द्युलोकादर्क्सिस्तेजोभिरबोधि सर्वैर्ज्ञायते । ततो रेवती धनवती येयं रोदसी द्यावापृथिवौ चित्रं नानाविधरूपयुक्तं यथा भवति तथास्थात् सर्वतो व्याप्य तिष्थति हे अग्ने आयतीं त्वदभिमुखमागच्छन्तीं विभातीं भासमानामुशसमुषोदेवीं भिक्षमाणो हवींषि याचमानस्त्वं वामं वननीयं द्रविणमग्निहोत्रादिलक्षणं धनमेषि । प्राप्नोषि । अबोधि । बुध अवगमने । कर्मणि लुङि चिण् भावकर्मणोरिति चिण् । चिणो लुक् । रेवती । रयिशब्दान्मतुप् । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलमिति सम्प्रसारणपरपूर्वत्वे । गुणः । उगितश्चेति ङीप् । रेशब्दाच्चोपसंख्यानमिति मतुप उदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः