मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६१, ऋक् ७

संहिता

ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश ।
म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥

पदपाठः

ऋ॒तस्य॑ । बु॒ध्ने । उ॒षसा॑म् । इ॒ष॒ण्यन् । वृषा॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।
म॒ही । मि॒त्रस्य॑ । वरु॑णस्य । मा॒या । च॒न्द्राऽइ॑व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒ऽत्रा ॥

सायणभाष्यम्

वृषा वृष्टिद्वारा प्रेरक आदित्य ऋतस्याग्निहोत्रादिकर्मकरणे सत्यभूतस्याह्नो बुध्ने मूल उषसामिषण्यन् प्रेरणं कुर्वन्मही महतौ रोदसी द्यावापृथिव्यावा विवेश । स्वतेजेभिः सर्वतः प्रविष्टवान् । यद्वा । वृषा वर्षितेषण्यन् सर्वतो गच्छन्नुषसां सम्बन्धी रश्मिसमूहो रोदसी द्यावापृथिव्यौ विष्टवानिति योजनीयम् । तत उषा मही महती मित्रस्य वरुणस्य मित्रावरुणयोर्माया प्रभारूपा सती चन्द्रेव सुवर्णानीव भानुं स्वप्रभां पुरुत्रा बहुषु देशेशु विदधे । विदधाति । सर्वत्र प्रसारयति । मही । अल्लोपश्छान्दसः । पुरुत्रा । देवमनुष्येत्यादिनाधिकरणे त्राप्रत्ययः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः