मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ४

संहिता

बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।
रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥

पदपाठः

बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ ।
रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

विश्वदेव्य सर्वदेवहित हे बृहस्पते नोऽस्मत्सम्बन्धीनि हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषिइ जुषस्व । सेवस्व । ततस्त्वं दाशुषे हविर्दत्तवते यजमानाय मह्यं रत्नान्युत्तमानि धनानि रास्व । देहि । रास्व । रा दाने । व्यत्ययेनात्मनेपदं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः