मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ६

संहिता

वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् ।
बृह॒स्पतिं॒ वरे॑ण्यम् ॥

पदपाठः

वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् ।
बृह॒स्पति॑म् । वरे॑ण्यम् ॥

सायणभाष्यम्

चर्षणीनां मनुष्याणां वृषभमभिमतफलवर्षकं विश्वरूपं व्याप्तरूपम् । यद्वा । विश्वरूपानामकगोवाहनोपेतम् । तथा च मन्त्रवर्णः । बृहस्पतिर्विश्वरूपामुपाजत । ऋग्वे. १-१६१-६ । इति । अदाभ्यं केनाप्यतिरस्करणीयं वरेण्यं सर्वैर्भजनीयं बृहस्पतिम् । अभिमतफलं यच इति पूर्वेणान्वयः । विश्वरूपम् । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम् । यद्वा । विश्वरूपास्य सतीति अर्शाअदित्वादच् प्रत्ययः । मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् । अदाभ्यम् । दभेश्चेति वक्तव्यमिति ण्यत्प्रत्ययः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०