मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ७

संहिता

इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥

पदपाठः

इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी ।
अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥

सायणभाष्यम्

अघृणे आगतदीप्तिमन् हे पूषन् देव नव्यसी नवतरेयं सुष्टुतिः शोभनस्तुतिरूपा वाक् ते त्वत्सम्बन्धीनि भवति । सैषा स्तुतिरस्माभिः स्तोतृभिस्तुभ्यं त्वदर्थं शस्यते । तां जुषस्वेत्युत्तरेणान्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०