मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ८

संहिता

तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् ।
व॒धू॒युरि॑व॒ योष॑णाम् ॥

पदपाठः

ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥

सायणभाष्यम्

हे पूशन् स्तोत्रं कुर्वाणस्य मम तां तादृशीं गिरं स्तुतिलक्शणां वाचं जुषस्व । सेवस्व । स्तुत्या प्रीतस्त्वं वाजयन्तीं वाजमन्नमिच्छन्तीं हर्षकारिणीं धियमिमां स्तुतिं प्रत्यव । अभिगच्छ । तत्र दृष्टान्तः । वधूयुरिव । यथा वधूयुः स्त्रीकामो योषणा स्त्रियं प्रत्यागच्छति तद्वत् । वाजयन्तीम् । वाजशब्दादिच्छतीत्यर्थे क्यच् । तदन्ताच्छतरि ङीपि रूपम् । ङीपोऽनुदात्तत्वे प्रत्ययस्वरः । अव । अव रक्षणादिष्वित्यस्य लोति रूपं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०