मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ९

संहिता

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
स नः॑ पू॒षावि॒ता भु॑वत् ॥

पदपाठः

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।
सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥

सायणभाष्यम्

यः पूषा विश्वा भुवना सर्वाल्लोकानभि अभिमुख्येन विपश्यति विशेशेण पश्यति । किञ्च तानि सं पश्यति तत्तद्वस्तुयाथात्म्यं सम्यक् जानाति । स तादृशः पूषा देवो नोऽस्माकमविता रक्षको भुवत् । भवतु । विपश्यति । यद्वृत्तयोगादनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गत्रेनिघातः । पश्यति । अत्र सकर्मकत्वात्परस्मै पदम् । पूर्ववदनिघातः । भवत् । भवतेर्लेट्यडागमः । भूसुवोस्तिङीति गुणप्रतिषेध उवङादेशः । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०