मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १०

संहिता

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

पदपाठः

तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥

सायणभाष्यम्

दशरात्रस्य षष्ठेऽहनि वैश्वदेवशस्त्रे तत्सवितुरिति द्वे ऋचौ प्रतिपत्तृचस्य द्वितीयातृतीये । सूत्रितं च । तत्सवितुर्वरेण्यमिति द्वे दोषो आगात् । आ. ८-१ । इति । अभिप्लवपृष्ठ्यषडहयोर्द्वितीयेऽहनि वैश्वदेवशस्त्रे प्रतिपत्तृचस्यैते एव प्रथमाद्वितीये । सूत्रितं च । तत्सवितुर्वरेण्यमिति द्वे आविश्वदेवम् । आ. ७-६ । इति ॥

यः सविता देवो नोऽस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धिः प्रचोदयात् प्रेरयेत् तत्तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैरुपास्यतया ज्ञेयतया च सम्भजनीयं भर्गोऽविद्यातत्कार्ययोर्भजनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजो धीमहि । वयं ध्यायामः । यद्वा । तदिति भर्गोविशेषणम् । सवितुर्देवस्य तत्तादृशं भर्गो धीमहि । किं तदित्यपेक्षायामाह । य इदि लिङ्गव्यत्ययः । यद्भर्गोधियः प्रचोदयात् । तद्द्यायेमेति समन्वयः । यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुर्देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैर्दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः सम्भजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि । ध्येयतया मनसा धारयेम । यद्वा । भर्गः शब्देनान्नमभिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्शणं फलं धीमहि । धारयामः । तस्याधारभूता भवेमेत्यर्थः । भर्गः शब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वनम् । वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः कर्मणि धियस्तदु ते प्रब्रवीमि प्रचोदयंत्सविता याभिरेतिति । तो. ब्रा. १-३२ । भर्गः । भ्रस्ज पाके । असुन् । भ्रस्जो रोपधयो रमन्यतरस्याम् । पा. ६-४-४२ । इति रोपधयोर्लोपो रमागमः । न्यंक्वादिपाठात् कुत्वम् । धीमहि । ध्यायतेर्लिङि बहुलं छन्दसीति संप्रसारणम् । व्यत्ययेनात्मने पदम् । यद्वा । धीङ् आधारे । लिङि बहुलं छन्दसीति विकरणस्य लुक् । प्रचोदयात् । चोदयतेर्लेट्याडागमः । यद्वृत्तयोगादनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०