मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् ११

संहिता

दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒ः पुरं॑ध्या ।
भग॑स्य रा॒तिमी॑महे ॥

पदपाठः

दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या ।
भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

वाजयन्तो वाजमन्नमात्मन इच्छन्तो वयं देवस्य द्योतमानस्य सवितुः पुरन्ध्या तद्विषयस्तुत्या प्रज्ञया वा भगस्य भजनीयस्य धनस्य रातिम् दानमीमहे । याचामहे । रातिम् । मन्त्रे वृषेत्यादिना क्तिन उदत्तत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११