मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १२

संहिता

दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑ः ।
न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥

पदपाठः

दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ ।
न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥

सायणभाष्यम्

नरः कर्मणां नेतारो विप्रा मेह्दाविनोऽध्वर्व्यादयो धियेषिताः कर्मणा बुद्ध्या वा प्रेर्यमाणाः सन्तः सवितारं देवं त्वां यज्ञैर्यजनीयैर्हविर्भिः सुवृक्तिभिः शोभनस्तोत्रैश्च नमस्यन्ति । परिचरन्ति । नमस्यन्ति । नमोवरिवश्चित्रङः क्यजिति क्यच् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११