मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १३

संहिता

सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥

पदपाठः

सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥

सायणभाष्यम्

अग्नीषोमप्रनयने सोमो जिगातीत्याद्यास्तिस्र ऋचः । सूत्रितं च । सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च अरमेत् । आ. ४-१० । इति ।

गातुवित् गातुर्वेदिमार्गः तं जानानः सोमो जिगाति । गच्छति । गन्तव्यं स्थानं दर्शयति । देवानां सम्बन्धि निष्कृतं संस्कृतमासदं सर्वैरासदनीयमृतस्य यज्ञस्य योनिं स्थानं हविर्धानाख्यमेति । प्राप्नोति । जिताति । गा स्तुतौ । जुहोत्यादिः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११