मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १४

संहिता

सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।
अ॒न॒मी॒वा इष॑स्करत् ॥

पदपाठः

सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ ।
अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥

सायणभाष्यम्

सोमः स्तोतृभ्योऽस्मभ्यं तथा द्विपदेऽस्मदीयाभ्यो द्विपाद्भ्यः प्रजाभ्यश्चतुष्पदे पशवे चतुष्पाद्भ्यो गवादिपशुभ्यश्चानमीवा रोगवर्जितानीषोऽन्नानिकरत् । करोतु । चतुष्पदे । भ संज्ञायां पादस्य पद्भावः । इसुसोः सामर्थ्य इति सम्हितायां सत्वम् । आदेशप्रत्यययोरिति षत्वम् । बहुव्रिहौ पूर्वपदस्वरः । करत् । करोतेर्लेट्यडागमः । इषस्करदित्यत्र सम्हितायां कः करत्करतीत्यादिना सत्वं ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११