मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १७

संहिता

उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।
द्राघि॑ष्ठाभिः शुचिव्रता ॥

पदपाठः

उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ ।
द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥

सायणभाष्यम्

शुचिव्रता परिशुद्धकर्माणौ हे मित्रावरुनावुरुशंसा उरुभिर्बहुभिः शंसनीयौ । यद्वा । उरु महच्छंसः शस्त्रं ययोस्तौ । नमोवृधा नमसा हविर्लक्षणेनान्नेन स्तोत्रेण वा वर्धमानौ द्राघिष्ठाभिरत्यन्तं दीर्घस्तुतिलक्षणाभिर्वाग्भिर्युक्तौ युवां दक्शस्य । दक्षं धनं बलं वा । तस्य मह्ना महत्त्वेन राजथः । ईशाथे । उरुशंसा । सह्न्सु स्तुतौ । कर्मणि घञ् । कृत्स्वरः । द्राघिष्ठाभिः । दीर्घशब्दादिष्ठनि प्रियस्थिरेत्यादिना द्राघीत्यादेशः । नित्त्वादाद्युदात्तः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११