मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६२, ऋक् १८

संहिता

गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् ।
पा॒तं सोम॑मृतावृधा ॥

पदपाठः

गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।
पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

सायणभाष्यम्

मैत्रावरुणस्य ग्रहस्य यज्या गृणाना जमदग्निनेत्येषा । सूत्रितं च । होता यक्षन्मित्रावरुणा गृणाना जमदग्ना । आ. ५-५ । इति । अध्यायोपाकरणे मण्डलाद्यन्तहोमे गृणाना जमदग्निनेत्येषा । आ. गृ. ३-५ ॥

हे मित्रवरुणौ जमदग्निनैतन्नामकेन महर्षिणा गृणाना स्तूयमानौ यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवामृतस्य यज्ञस्य यौनौ देवयजनाख्ये देशे सीदतम् । उपविशतम् । ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां सोमं पातम् । पिबतम् । गृणाना । गॄ शब्दे । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतम् । सदेर्लोटि प्राघ्रात्यादिना सीदादेशः । पातम् । पा पाने । बहुलं छन्दसीति शपो लुक् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११