मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १

संहिता

त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे ।
अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥

पदपाठः

त्वाम् । हि । अ॒ग्ने॒ । सद॑म् । इत् । स॒ऽम॒न्यवः॑ । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे । इति॑ । क्रत्वा॑ । नि॒ऽए॒रि॒रे ।
अम॑र्त्यम् । य॒ज॒त॒ । मर्त्ये॑षु । आ । दे॒वम् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् । विश्व॑म् । आऽदे॑वम् । ज॒न॒त॒ । प्रऽचे॑तसम् ॥

सायणभाष्यम्

वामदेव्ये चतुर्थे मण्दले पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके दशसूक्तानि । तेषु त्वां ह्यग्ने सदमिदिति विंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका । त्वां ह्यग्ने विंशतिरष्ट्यतिजगतीधृतय आद्या उपाद्याश्चतस्रो वारुण्यश्च वेति । मण्दलद्रष्टा वामदेवऋषिः । प्रथमा चतुःष्ट्यक्षराष्तिर्द्वितीयाद्विपञ्चाशदक्षराजगती तृतीया द्विसप्तत्यक्षारा धृतिश्चतुर्थ्याद्या अनादेशपरिभाषया सप्तदश त्रिष्टुभः । कृत्स्नस्य सूक्तस्य मण्दलादिष्वाग्नेयमिति परिभाषयाग्निर्देवता द्वितीयाद्याश्चतस्रो वरुणदेवत्या वा । सूक्तविनियोगो लैंगिकः । आद्याध्यायो पाकरणे मण्दलादिहोमे विनियुक्ता ॥

वामदेवः स्तौति । हे अग्ने समन्यवः । मन्युः स्पर्धा । तया सह वर्तमानाः । स्वसमानैः स्पर्धमाना इत्यर्थः । देवासो देवनशीला इन्द्रादयो देवा देवं द्योतमानारतिं शीघ्रं गन्तारं त्वां सदमित्सदैवन्येरिरे हि । स्पर्धानिमित्ते युद्धे प्रेरयन्ति खलु । इति शब्दो हेत्वर्थः । य्समाद्देवास्त्वां युद्धार्थं नितरां प्रेरयन्ति तस्माद्यजमानाः क्रत्वा स्तुतिलक्षेन कर्माणा न्येरिरे । यज्ञकर्मणि देवान्हविः प्रापयितुं देवानाह्वातुं च त्वां नितरां प्रेरयन्ति खलु । यजत यजनीय हे अग्ने अमर्त्यं मरनधरम्रहितमा सर्वतो देवं द्योतमानं प्रचेतसम् । प्रकृष्टं कर्मविषयं चेतो ज्ञानं यस्य तादृशं त्वां मर्त्येषु यागं कुर्वाणेषु मनुष्येष्वादेवमागन्तारं जनत । देवा हविः श्रपणार्थमजनयन् । तथा प्रचेतसं कर्माभिज्ञमादेवं तत्तद्यज्ञेष्वागन्तारं त्वां विश्वं जनत । युगपन्नानादेशवर्तिषु यज्ञेषु यौगाद्येन हविरानयनार्थं व्याप्तं देवा अकुर्वन् । न्येरिरे । ईर गतौ । लिटि मन्त्रत्वादाम्न भवति । सहेति योगविभागत्समासः । हियोगादनिघातः । क्रत्वा । जसादिषु छन्दसि वावचनमिति नादेशाभवः । यणादेशः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२