मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् ६

संहिता

अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु ।
शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥

पदपाठः

अ॒स्य । श्रेष्ठा॑ । सु॒ऽभग॑स्य । स॒म्ऽदृक् । दे॒वस्य॑ । चि॒त्रऽत॑मा । मर्त्ये॑षु ।
शुचि॑ । घृ॒तम् । न । त॒प्तम् । अघ्न्या॑याः । स्पा॒र्हा । दे॒वस्य॑ । मं॒हना॑ऽइव । धे॒नोः ॥

सायणभाष्यम्

सुभगस्य सुधनस्य सुष्ठु भजनीयस्याग्नेर्देवस्य श्रेष्ठतिशयेन प्रशस्या संदृक् संदृष्टिर्मर्त्येषु चित्रतमातिशयेन चायनीया पूजनीया भवति । स्पार्हा सर्वैः स्पृहणीया भवति । तत्र दृष्थान्तः । यथा देवस्य क्षीरं कामयमानस्य पुरुषस्याघ्न्याया गोः शुचि तेजोयुक्तं घृतं क्षरनयुक्तं सप्तं क्षीरं स्पृहणीयं भवति । तत्रैव दृष्टान्तान्तरम् । यथा गां भिक्षमाणस्य मर्त्यस्य धेनोर्दोग्ध्र्या गोर्मंहनेव । मंहतिर्दानकर्मा । दानं यथा प्रियकरं भवति तद्वत्त् । सुभगस्य आद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । स्पार्हा । कर्षात्वतो घञोऽन्त उदात्तः । देवस्य । दीव्यतीति देवः । दीव्यतेः कान्त्यर्थस्य पचाद्यचि रूपं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३