मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १०

संहिता

स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य ।
धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥

पदपाठः

सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒ऽजा॒नन् । अच्छ॑ । रत्न॑म् । दे॒वऽभ॑क्तम् । यत् । अ॒स्य॒ ।
धि॒या । यत् । विश्वे॑ । अ॒मृताः॑ । अकृ॑ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥

सायणभाष्यम्

प्रजानन् सर्वं जानानः सोऽग्निर्देवभक्तं देवैर्देवनशीलैः स्तोतृभिः सम्भजनीयमस्याग्नेः सम्बन्धि यदुत्तमं रत्नं धनमस्ति तद्रत्नमच्छाभिमुख्येन तु क्शिप्रं नोऽस्मान्नयतु । प्रापयतु । अमृता मरण धर्मरहिता विश्वे सर्वे देवा धिया हविर्वहनलक्षनेन कर्मणा हेतुना यद्यमग्निमकृण्वन् हविषां प्रापयितरमकुर्वन् । यस्य चाग्नेर्द्यौः पिता पालयत्री जनिता जनयित्री च । अग्ने दिवः सूनुरसि प्रचेताः । ऋग्वे. ३-२५-१ । इति श्रवणात् । यद्वा । द्यौर्देवनशील आदित्यः पिता जनयिता च आदित्यादग्निरित्याम्नानात् । सत्यं यथार्थभूतं तमग्निमुक्शन् । घृताद्याहुतिभिरध्वर्व्यादयः सञ्चन्ति । देवभक्तम् । भज सेवायाम् । कर्मणि क्तः । त्रुतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । उक्शन् । उक्ष सेचने । लङि रूपम् । बहुलं छन्दसीत्यडभावः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३