ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् ।
प॒श्वय॑न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ॥
ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒ऽवांसः॑ । अद्रि॑म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः॑ । वि । वो॒च॒न् ।
प॒श्वऽय॑न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त॑ । ज्योतिः॑ । च॒कृ॒पन्त॑ । धी॒भिः ॥
तेऽङ्गिरसोऽन्द्रिं पणिभिरपहृतानां गवां निरोधकं पर्वतं ददृवांसो विदारयन्तः सन्तो मर्मृजत । अग्निं पर्यचरन् । एषामङ्गिरसां तत्तादृशं कर्मान्ये महर्षयोऽभितः सर्वत्र जगति वि वोचन् । विशेषेणाकथयन् । पश्वयंत्रासः पशुनिर्गमनार्थानि यन्त्राण्युपाया येशां तेङ्गिरसः कारमभिमतस्य प्रयोजनस्य कर्तारमग्निमभ्यर्चन् । आस्तुवन् । ततस्त्मोपहमादित्याख्यं ज्योतिर्विदन्त । अलभन्त । ततो धीभिर्बुद्धिभिश्चकृपन्त । यज्ञानकल्पयन्नकुर्वन् । मर्मृजत । मृजूश् शुद्धौ । यङ् लुकि लङि व्यत्ययेनात्मने पदम् । निघातः । चकृपन्त । कृपू सामर्थ्ये । ण्यन्तस्य लुङि चङि सन्वद्भावाभावश्छान्दसः ॥ १४ ॥