मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १५

संहिता

ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षन्त॒मद्रि॑म् ।
दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥

पदपाठः

ते । ग॒व्य॒ता । मन॑सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि॑ । सन्त॑म् । अद्रि॑म् ।
दृ॒ळ्हम् । नरः॑ । वच॑सा । दैव्ये॑न । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥

सायणभाष्यम्

नरः कर्माणां नेतार उशिजोऽग्निं कामयमानास्तेऽङ्गिरसो गव्यता गा इच्छता मनसा दृध्रं गवां निर्गमनद्वारनिरोधकमुब्धं समुब्धं संहतम् । यद्वा । उभिः पूरणार्थः । गोभिः पूर्नं गा येमानं नियच्छन्तं परि सर्वतः सन्तं वर्तमानं धृळ्हं दृढं गोमन्तं गोभिर्युक्तं व्रजं गवां निवासस्त्य्हानमद्रिं पर्वतं दैव्येनाग्निविषयेण वचसा वेदात्मकेन स्तोत्रेण विवव्रुः । गोनिर्गमनार्थमुद्धाटितवन्तः । उब्धम् । उभ्नातिर्हन्तिना समानार्थः । यद्वा । उभ उन्भ पूरणे । कर्मणि क्तः । येमानम् । यमेः कानच्येत्वाभ्यासलोपौ । चित्त्वादन्तोदात्तः । परि शन्तमित्यत्र सम्हितायामुपसर्गप्रदुर्भ्यामस्तिर्यच् पर इति षत्वं ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४