मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १७

संहिता

नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त ।
आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्राँ॑ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥

पदपाठः

नेश॑त् । तमः॑ । दुधि॑तम् । रोच॑त । द्यौः । उत् । दे॒व्याः । उ॒षसः॑ । भा॒नुः । अ॒र्त॒ ।
आ । सूर्यः॑ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा॑न् । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥

सायणभाष्यम्

तमो रात्रिकृतं ध्वान्तं दुधितम् । दुधिः प्रेरणकर्मा । प्रातरग्निविहरणकाल उषसा प्रेरितं सत् नेशत् । अनश्यत । ततो द्यौरन्तरिक्शं रोचत । अदीप्यत । ततो देव्या देवनशीलाया उषसो भानुः प्रभोदर्त । उद्गच्छति । अथ सूर्यो बृहतो महतोऽज्रानजरान्पर्वतान् गमनशीलान्रश्मीन्वा तिष्ठत् । अश्यतिश्ठत् । किं कुर्वन् मर्तेषु मनुष्येषु विद्यमानमृजु सत्कर्म वृजिनानृजून्यसत्कर्माणि च पश्यन् । अध्यतिष्ठदिति शेशः । निशत् । णश अदर्शने । लङि णशिमन्योरलिट्येत्वं वक्तव्यमित्येत्वम् । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । रोचत । रुच दीप्तौ । लङि रूपम् । वाक्यभेदादनिघातः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५