मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् १८

संहिता

आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयन्त॒ द्युभ॑क्तम् ।
विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥

पदपाठः

आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न॑म् । धा॒र॒य॒न्त॒ । द्युऽभ॑क्तम् ।
विश्वे॑ । विश्वा॑सु । दुर्या॑सु । दे॒वाः । मित्र॑ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥

सायणभाष्यम्

आदित्सूर्योदयादनन्तरं बुबुधानाः पणिभिरपहृता निरोधान्निर्गता गाजानाना अङ्गिरसः पश्चा पृष्थ्यदेशेशु व्यख्यन् । अशेशेण ता ता अपश्यन् । तथादिदनन्तरं द्युभक्तं दीप्तियुक्तं देवैः सम्भक्तं वा रत्नं पणिभिरपहृतं धनं च धारयन्त । अधारयन् । लब्धगोधनानामङ्गिरसां विश्वासु दुर्याअसु सर्वेषु गृहेषु विश्वे यजनीयाः सर्वे देवा आजग्मुः । हे मित्र मित्रभूत हे वरुणोपद्रवाणां वारक हे अग्ने धिये कर्माणां कर्त्रे स्तोत्रे वा यजमानाय सत्यमस्तु । तदेतत्तवोपद्रववारणसामर्थ्यं तद्यथार्थभूतमस्तु । पश्चा । पश्च पश्चा च छन्दसीति निपातितः । बुबुधानाः । बुधेर्लिति कानचि रूपम् । चित्त्वादन्तोदात्तः । द्युभक्तम् । भज सेवायाम् । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५