मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १, ऋक् २०

संहिता

विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥

पदपाठः

विश्वे॑षाम् । अदि॑तिः । य॒ज्ञिया॑नाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् ।
अ॒ग्निः । दे॒वाना॑म् । अवः॑ । आ॒ऽवृ॒णा॒नः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

अयमग्निर्विश्वेषां सर्वेषां यज्ञियानां यज्ञार्हाणां देवानामदितिः अदितिर्देवमाता । तद्वद्देवानां पोषक इत्यर्थः । यद्वा । विश्वेषां देवानामदितिर्भूस्थानीयः आधारभूत इति यावत् । अयं वा अग्निर्वैश्वानर इति श्रुतेः । तथायमग्निर्विश्वेषां मानुषाणामतिथिरतिथिवत्पूज्यो भवति । देवानां देवनशीलानां स्तोतॄणामवोऽन्नं हविरावृणानः सम्भजन् जातवेदाः । जातं सर्वं वेत्तीति जातवेदाः । सोऽग्निस्तेषां स्तोतॄणां सुमृळीकः सुखकरो भवतु । अतिथिः । अत सातत्यगमने । ऋतन्यञ्जीत्यादिनेथिन्प्रत्ययः । नित्त्वादाद्युदात्तः । मानुषाणाम् । मनोरपत्यानीत्यर्थे मनोर्जातावञ्यतौ षुक्छेत्यञ्प्रत्ययः । ञित्त्वादाद्युदात्तः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५