मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १

संहिता

यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॑ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ ।
होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै॑ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै॑ ॥

पदपाठः

यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । दे॒वः । दे॒वेषु॑ । अ॒र॒तिः । नि॒ऽधायि॑ ।
होता॑ । यजि॑ष्ठः । म॒ह्ना । शु॒चध्यै॑ । ह॒व्यैः । अ॒ग्निः । मनु॑षः । ई॒र॒यध्यै॑ ॥

सायणभाष्यम्

यो मर्त्येष्विति विंशत्यृचं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । यो मर्त्येष्वित्यनुक्रमणिका । अस्य सूक्तस्य प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्त एव विनियोग उक्तः ॥

अमृतो मरणधर्मरहितो योऽग्निर्मर्त्येषु मनुष्येष्वृतावा सत्यवान्निधायि निहितः । यद्वा । वर्त्येशु मनुष्यसम्बन्धिषु वागादीन्द्रियेशु निहितः । अग्निर्वाग्भूत्वा मुखं प्रविशदिति श्रुतेः । देवो देवनशीलो योऽग्निरिन्द्रादिषु देवेष्वरतिरभिगन्ता शत्रूणाम् । यद्वा । देवलोके गन्ता । निघायि निहितः । स च होता देवानामाह्वाता यजिष्ठो यष्टृतमोऽग्निर्मह्ना स्वकीयेन महता तेजसा श्चध्यै दीपितुमुत्तरवेद्यां निहितः । किञ्च हव्यैर्हवनीयैराज्यपुरोडाशादिभिर्हविर्भिहेतुभिर्मनुशो मनुष्यस्य यजमानस्येरयध्यै स्वर्गं प्रति प्रेरनाय निहितः । अरति । ऋ गतौ । वहिवस्यर्तिभ्यश्चिदित्यतिप्रत्ययः । चित्त्वादन्तोदात्तः । निधायि । दधातेः कर्मणि लुङि रूपम् । परादिश्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । शुचध्यै । शुइच दीप्तौ । तुमर्थे कध्यैप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः । ईरयध्यै । ईरयतेस्तुमर्थे शध्यैप्रत्ययः । शित्त्वेन सार्वधातुकत्वाण्णिलोपाभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६