मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ५

संहिता

गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।
इळा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥

पदपाठः

गोऽमा॑न् । अ॒ग्ने॒ । अवि॑ऽमान् । अ॒श्वी । य॒ज्ञः । नृ॒वत्ऽस॑खा । सद॑म् । इत् । अ॒प्र॒ऽमृ॒ष्यः ।
इळा॑ऽवान् । ए॒षः । अ॒सु॒र॒ । प्र॒जाऽवा॑न् । दी॒र्घः । र॒यिः । पृ॒थु॒ऽबु॒ध्नः । स॒भाऽवा॑न् ॥

सायणभाष्यम्

हे असुर बलवन्हे अग्ने एष मदीयोऽयं यज्ञो गोमान् गोभिस्तद्वानविमान् । अवयो मेशा अस्य सन्ति तद्वान् अश्व्यश्वोपेतश्चास्तु । नृवत्सखा । नरः कर्माणां नेतारोऽध्वर्व्यादयस्तद्वन्तः सखायोऽनुष्ठातरो यजमाना यस्य स तथोक्तः । सदमित्सदैवाप्रमृष्योऽप्रधृष्यश्चास्तु । तथेळावान् । इळा हविर्लक्षणमन्नं तद्वान् । प्रजावान्पुत्रपौत्रादियुक्तश्चास्तुफ़् । दीर्घोऽविच्छिन्नानुष्थानोपेतो रयिर्धनवान् । लुप्तमत्वर्थीयः । पृथुबुध्नः । पृथूनि बहुलानि बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः । सभावानुपद्रष्टृरूपसभायुक्तश्चास्तु । नृवत्सखा । नरो येषां सन्तीति नृवत् । मतुप् । तस्य छान्दसं वत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । बहुव्रीहौ पूर्वपदस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६