मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ६

संहिता

यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं॑ वा त॒तप॑ते त्वा॒या ।
भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ॥

पदपाठः

यः । ते॒ । इ॒ध्मम् । ज॒भर॑त् । सि॒ष्वि॒दा॒नः । मू॒र्धान॑म् । वा॒ । त॒तप॑ते । त्वा॒ऽया ।
भुवः॑ । तस्य॑ । स्वऽत॑वान् । पा॒युः । अ॒ग्ने॒ । विश्व॑स्मात् । सी॒म् । अ॒घ॒ऽय॒तः । उ॒रु॒ष्य॒ ॥

सायणभाष्यम्

हे अग्ने ते त्वदर्थं यः पुमान् सिष्विदानः सिस्विदानः स्विद्यद्गात्रः सन् इध्मं त्वत्समिन्धनार्थं काष्ठभारं जभरत् । आहरति । यो वा त्वाया त्वत्कामनया मूर्धानं स्वमस्तकं ततपते काष्ठभारेण तापयति तस्य तादृशस्य पुंसः स्वतवान् । स्वतवान्धनवानिति तलवकार उक्तम् । धनवान् भुवः । भवसि । पायुः पलयितासि । सीमेनं विश्वस्मादघायतोऽघं पापमिच्छतः पुरुषादुरुष्य । रक्ष । जभरत् । हरतेर्लुङि चङि रूपम् । चङ्यन्यतरस्यामिति चङ् पुर्व्स्योदात्तत्वम् । सिस्विदानः । ञष्विदागात्रक्षरणे । कानचि रूपम् । संहितायामादेशप्रत्यययोरिति धातुसकारस्य षत्वम् । त्वाया । त्वामात्मन इच्छतीत्यर्थे क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यन्तस्य त्वादेशः । दकारस्य छान्दसमात्वम् । क्यजन्ताद्धातोर्भावे अ प्रत्ययादित्यकार प्रत्ययः । सुपां सुलुगिति तृतीयाया आकारः । एकादेशस्वरः । भुवः । भवतेर्लेट्यडागमे रूपम् । भूसुवोस्तिङीति गुणप्रतिषेधः । आगमस्यानुदात्तत्वे धातुस्वरः । स्वतवाः पायुरित्यत्र संहितायां स्वतवान्पायौ । पा. ८-३-११ । इति नकारस्य रुत्वम् । अत्रानुनासिकः पुर्वस्य तु वेत्याकारोऽनुनासिकः । रेफस्य विसर्जनीयः । कुप्वोः कः पौ चेतिः प इत्यादेशः । अघायतः । अघमात्मन इच्छतीत्यर्थे सुपः क्यच् । अश्वाघस्यादित्यात्वम् । तदन्ताच्छतृप्रत्ययः । शतरनुम इति विभक्तेरुदात्तत्वम् । उरुष्य । उरुशब्दः कण्ड्वादिः । लोटि रूपम् । निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७