मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ७

संहिता

यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्म॒न्द्रमति॑थिमु॒दीर॑त् ।
आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥

पदपाठः

यः । ते॒ । भरा॑त् । अन्नि॑ऽयते । चि॒त् । अन्न॑म् । नि॒ऽशिष॑त् । म॒न्द्रम् । अति॑थिम् । उ॒त्ऽईर॑त् ।
आ । दे॒व॒ऽयुः । इ॒नध॑ते । दु॒रो॒णे । तस्मि॑न् । र॒यिः । ध्रु॒वः । अ॒स्तु॒ । दास्वा॑न् ॥

सायणभाष्यम्

हे अग्ने यः पुमानन्नियतेऽन्नमिच्छते ते त्य्भ्यं हविर्लक्शणं पुरोडाशादिकमन्नं भरात् दातुं बिभृयात् । चिचिति चार्थे । यश्च मन्द्रं मदकरं सोमं निशिशत् नितरां प्रयच्छति । यश्चातिथिमतिथिवत्पूज्यं त्वामुदीरत् उत्तरवेद्यां प्रणयति । आ अपि च यश्च देवयुर्देवं त्वां कामयमानो दुरोणे स्वकीये ग्रुह इनधते त्वां समिद्भिः समिन्धते तस्मिन्नेतस्मिन्पुरुषे रयिः पुत्रो ध्रुव आस्तिक्यबुद्ध्या वैदिके मार्गे निश्चलोऽस्तु । तथा दास्वानौदार्योपेतश्चास्तु । भरात् । डुभृञ् धारणपोषनयोरित्यस्य लेट्याडागमे रूपम् । यद्वृत्तयोगादनिघातः । अन्नियते । अन्नमात्मन इच्छते । क्यच् । क्चचि चेतित्वम् । ह्रस्वश्छान्दसः । निशिषत् । शासु अनुशिष्टौ । लुङि सर्तिशास्त्यर्तिभ्यश्चेति ज्लेरङादेशः । शास इदङ् हलोरितीत्वम् । उदीरत् । ईर गतौ । लेटि व्यत्ययेन परस्मै पदम् । अडागमः । आगमस्यानुदात्तत्वे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । इनधते । ञ इन्धी दीप्तौ । लटि व्यत्ययेन शप् । रुधादित्वात् श्नम् । श्नान्नलोप इति धातुनकारलोपः क्ङित्परत्वाभावात् श्नसोरल्लोपाभावः । यद्वृत्तयोगादनिघातः । श्नमः स्वरः । दास्वान् । दासृ दाने । सम्पदादिलक्षणो भावे क्विप् । तदस्यास्तीति मतुप् । मादुपधाया इति वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७