मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् ९

संहिता

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् ।
न स रा॒या श॑शमा॒नो वि यो॑ष॒न्नैन॒मंह॒ः परि॑ वरदघा॒योः ॥

पदपाठः

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । दाश॑त् । दुवः॑ । त्वे इति॑ । कृ॒णव॑ते । य॒तऽस्रु॑क् ।
न । सः । रा॒या । श॒श॒मा॒नः । वि । यो॒ष॒त् । न । ए॒न॒म् । अंहः॑ । परि॑ । व॒र॒त् । अ॒घ॒ऽयोः ॥

सायणभाष्यम्

हे अग्ने यो यजमानोऽमृताय मरणधर्मरहिताय तुभ्यं दाशत् हवींषि प्रयच्छेत् । यतस्रुक् संयतस्रुक् यश्च यजमानस्त्वे त्वयि दुवः परिचर्यां कृणवते करोति शशमानः स्तोत्रं कुर्वाणः स यजमानो राया धनेन न वि योषत् । न पृघग्भवेत् । सदा धनयुक्तो भवेदित्यर्थः । अघायोः पापमिच्छतो हिंसकस्य सम्बन्ध्यंह आहननं पापमेनं यजमानं न परि वरत् । न परिवृणुयात् । न स्पृशेदित्यर्थः । दाशत् । दाशृ दाने । लेट्यडागमे रूपम् । त्वे । सुपां सुलुगिति सप्तम्याः शे इत्यादेशः । कृणवते । यद्वृत्तयोगादनिघातः । योषत् । यु मिश्रने । लेटि सिब्बहुलमिति सिप् । अडागमः । निघातः । वरत् वृञ् वरणे । लेटि रूपं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७