मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १२

संहिता

क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय॑न्तो॒ दुर्या॑स्वा॒योः ।
अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवै॑ः ॥

पदपाठः

क॒विम् । श॒शा॒सुः॒ । क॒वयः॑ । अद॑ब्धाः । नि॒ऽधा॒रय॑न्तः । दुर्या॑सु । आ॒योः ।
अतः॑ । त्वम् । दृश्या॑न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्ऽभिः । प॒श्येः॒ । अद्भु॑तान् । अ॒र्यः । एवैः॑ ॥

सायणभाष्यम्

हे अग्ने आयोर्मनुष्यस्य दुर्यासु गृहेष्वदब्धाः केनाप्यरितस्कृता निधारयन्तो निवसन्तः कवयह् क्रान्तदृशो देवाः कविं मेधाविनं त्वां शशासुः; होता भवेति शशंसुः । अतः कारणादर्यो यज्ञस्य स्वामी त्वं दृश्यान्दर्शनीयानद्भुतानाश्चर्यरूपोपेतानिन्द्रादीनेतान्देवानेवैर्गमनशीलैः षड्भिः पादैः स्वतेजोभिः पश्येः । जानीयाः । दृश्यान् । दृशिर् प्रेक्षणे । ऋदुपधाच्चाक्लृपिचृतेः । पा. ३-१-११० । इति कर्मणि क्यप् । कित्त्वादगुणः । पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८